|
|
 |
 |
|
|
१ आदिपर्व.jpg)
॥ श्रीः ॥
1.72. अध्यायः 072
Mahabharata - Adi Parva - Chapter Topics
स्वर्गंप्रत्यागतात्कचात्संजीविन्यध्ययनेन देवानां कृतार्थता॥ 1 ॥
शुक्रवृषपर्वणोर्विरोधोत्पादनार्थमिन्द्रकृतं कन्यानां वस्त्रमिश्रणम्॥ 2 ॥
वस्त्रमिश्रणेन शर्मिष्ठादेवयान्योर्विरोधः॥ 3 ॥ शर्मिष्ठया कूपे प्रक्षिप्ताया देवयान्या ययातिना कूपादुद्धरणम्॥ 4 ॥
शुक्रस्य कूपसमीपागमनं देवयानीसान्त्वनं च॥ 5 ॥
Mahabharata - Adi Parva - Chapter Text
वैशम्पायन उवाच। 1-72-0x(364)(3282)
कृतविद्ये कचे प्राप्ते हृष्टरूपा दिवौकसः।
कचादधीत्य तां विद्यां कृतार्था भरतर्षभ॥ 1-72-1(3283)
सर्व एव समागम्य शतक्रतुमथाब्रुवन्।
कालस्ते विक्रमस्याद्य जहि शत्रून्पुरन्दर॥ 1-72-2(3284)
वैशम्पायन उवाच। 1-72-3x(365)
एवमुक्तस्तु सहितैस्त्रिदशैर्मघवांस्तदा।
तथेत्युक्त्वा प्रचक्राम सोऽपश्यत वने स्त्रियः॥ 1-72-3(3285)
क्रीडन्तीनां तु कन्यानां वने चैत्ररथोपमे।
वायुभूतः स वस्त्राणि सर्वाण्येव व्यमिश्रयत्॥ 1-72-4(3286)
ततो जलात्समुत्तीर्य कन्यास्ताः सहितास्तदा।
वस्त्राणि जगृहुस्तानि यथाऽऽसन्नान्यनेकशः॥ 1-72-5(3287)
तत्र वासो देवयानयाः शर्मिष्ठा जगृहे तदा।
व्यतिमिश्रमजानन्ती दुहिता वृषपर्वणः॥ 1-72-6(3288)
ततस्तयोर्मिथस्तत्र विरोधः समजायत।
देवयान्याश्च राजेन्द्र शर्मिष्ठायाश्च तत्कृते॥ 1-72-7(3289)
देवयान्युवाच। 1-72-8x(366)
कस्माद्गृह्णासि मे वस्त्रं शिष्या भूत्वा ममासुरि।
समुदाचारहीनाया न ते साधु भविष्यति॥ 1-72-8(3290)
सर्मिष्ठोवाच। 1-72-9x(367)
आसीनं च शयानं च पिता ते पितरं मम।
स्तौतिबन्दीव चाभीक्ष्णं नीचैः स्थित्वा विनीतवत्॥ 1-72-9(3291)
याचतस्त्वं हि दुहिता स्तुवतः प्रतिगृह्णतः।
सुताहं स्तूयमानस्य ददतोऽप्रतिगृह्णतः॥ 1-72-10(3292)
आदुन्वस्व विदुन्वस्व द्रुह्य कुप्यस्व याचकि।
अनायुधा सायुधाया रिक्ता क्षुभ्यसि भिक्षुकि॥ 1-72-11(3293)
लप्स्यसे प्रतियोद्धारं न हि त्वां गणयाम्यहम्।
`प्रतिकूलं वदसि चेदितःप्रभृति याचकि॥' 1-72-12(3294)
वैशम्पायन उवाच। 1-72-13x(368)
समुच्छ्रयं देवयानीं गतां सक्तां च वाससि।
शर्मिष्ठा प्राक्षिपत्कूपे ततः स्वपुरमागमत्।
हतेयमिति विज्ञाय शर्मिष्ठा पापनिश्चया॥ 1-72-13(3295)
अनवेक्ष्य ययौ वेश्म क्रोधवेगपरायणा।
`प्रविश्य स्वगृहं स्वस्था धर्ममासुरमास्थिता।'
अथ तं देशमभ्यागाद्ययातिर्नहुषात्मजः॥ 1-72-14(3296)
श्रान्तयुग्यः श्रान्तहयो मृगलिप्सुः पिपासितः।
स नाहुषः प्रेक्षमाण उदपानं गतोदकम्॥ 1-72-15(3297)
ददर्श राजा तां तत्र कन्यामग्निशिखामिव।
तामपृच्छत्स दृष्ट्वैव कन्याममरवर्णिनीम्॥ 1-72-16(3298)
सान्त्वयित्वा नृपश्रेष्ठः साम्ना परमवल्गुना।
का त्वं ताम्रनखी श्यामा सुमृष्टमणिकुण्डला॥ 1-72-17(3299)
दीर्घं ध्यायसि चात्यर्थं कस्माच्छ्वसिषि चातुरा।
कथं च पतिताऽस्यस्मिन्कूपे वीरुत्तृणावृते॥ 1-72-18(3300)
दुहिता चैव कस्य त्वं वद सत्यं सुमध्यमे। 1-72-19(3301)
देवयान्युवाच।
योऽसौ देवैर्हतान्दैत्यानुत्थापयति विद्यया॥ 1-72-20x(369)
तस्य शुक्रस्य कन्याहं स मां नूनं न बुध्यते।
एष मे दक्षिणो राजन्पाणिस्ताम्रनखाङ्गुलिः॥ 1-72-20(3302)
समुद्धर गृहीत्वा मां कुलीनस्त्वं हि मे मतः।
जानामि हि त्वां संशान्तं वीर्यवन्तं यशस्विनम्॥ 1-72-21(3303)
तस्मान्मां पतितामस्मात्कूपादुद्धर्तुमर्हसि। 1-72-22(3304)
वैशम्पायन उवाच।
तामथो ब्राह्मणीं कन्यां विज्ञायनहुषात्मजः॥ 1-72-22x(370)
गृहीत्वा दक्षिणे पाणावुज्जहार ततोऽवटात्।
उद्धृत्य चैनां तरसा तस्मात्कूपान्नराधिपः॥ 1-72-23(3305)
`ययातिरुवाच। 1-72-24x(371)
गच्छ भद्रे यथाकामं न भयं विद्यते तव।
इत्युच्यमाना नृपतिं देवयानीदमुत्तरम्॥ 1-72-24(3306)
उवाच मामुपादाय गच्छ शीघ्रं प्रियो हि मे।
गृहीताहं त्वया पाणौ तस्माद्भर्ता भविष्यसि॥ 1-72-25(3307)
इत्येवमुक्तो नृपतिराह क्षत्रकुलोद्भवः।
त्वं भद्रे ब्राह्मणी तस्मान्मया नार्हसि सङ्गमम्॥ 1-72-26(3308)
सर्वलोकगुरुः काव्यस्त्वं तस्य दुहिता शुभे।
तस्मादपि भयं मेऽद्य ततः कल्याणि नार्हसि॥ 1-72-27(3309)
देवयान्युवाच। 1-72-28x(372)
यदि मद्वचनान्नाद्य मां नेच्छसि नराधिप।
त्वामेव वरये पित्रा तस्माल्लप्स्यसि गच्छ हि॥ 1-72-28(3310)
वैशम्पायन उवाच। 1-72-29x(373)
आमन्त्रयित्वा सुश्रोणीं ययातिः स्वपुरं ययौ।
गते तु नाहुषे तस्मिन्देवयान्यप्यनिन्दिता॥ 1-72-29(3311)
क्वचिद्गत्वा च रुदती वृक्षमाश्रित्य धिष्ठिता।
ततश्चिरायमाणायां दुहितर्यथ भार्गवः॥ 1-72-30(3312)
संस्मृत्योवाच धात्रीं तां दुहितुः स्नेहविक्लवः।
धात्रि त्वमानय क्षिप्रं देवयानीं समुध्यमाम्॥ 1-72-31(3313)
इत्युक्तमात्रे सा धात्री त्वरिताऽऽनयितुं गता।
यत्रयत्र सशीभिः सा गता पदममार्गत॥ 1-72-32(3314)
सा ददर्श तथा दीनां श्रमार्तां रुदतीं स्थिताम्।
वृत्तान्तं किमिदं भद्रे शीघ्रं वद पिताह्वयत्॥ 1-72-33(3315)
एवमुक्ताह धात्रीं तां शर्मिष्ठावृजिनं कृतम्।
उवाच शोकसंतप्ता घूर्णिकामागतां पुरः'॥ 1-72-34(3316)
देवयान्युवाच। 1-72-35x(374)
त्वरितं घूर्णिके गच्छ शीघ्रमाचक्ष्व मे पितुः॥ 1-72-35(3317)
नेदानीं संप्रवेक्ष्यामि नगरं वृषपर्वणः। 1-72-36(3318)
वैशम्पायन उवाच।
सा तत्र त्वरितं गत्वा घूर्णिकाऽसुरमन्दिरम्॥ 1-72-36x(375)
दृष्ट्वा काव्यमुवाचेदं संभ्रमाविष्टचेतना।
आचचक्षे महाप्राज्ञं देवयानीं वने हताम्॥ 1-72-37(3319)
शर्मिष्ठया महाभाग दुहित्रा वृषपर्वणः।
श्रुत्वा दुहितरं काव्यस्तत्र शर्मिष्ठया हताम्॥ 1-72-38(3320)
त्वरया निर्ययौ दुःखान्मार्गमाणः सुतां वने।
दृष्ट्वा दुहितरं काव्यो देवयानीं ततो वने॥ 1-72-39(3321)
बाहुभ्यां संपरिष्वज्य दुःखितो वाक्यमब्रवीत्।
आत्मदोषैर्नियच्छन्ति सर्वे दुःखसुखे जनाः॥ 1-72-40(3322)
मन्ये दुश्चरितं तेऽस्ति यस्येयं निष्कृतिः कृता। 1-72-41(3323)
देवयान्युवाच।
निष्कृतिर्मेऽस्तु वा मास्तु शृणुष्वावहितो मम॥ 1-72-41x(376)
शर्मिष्ठया यदुक्ताऽस्मि दुहित्रा वृषपर्वणः॥
सत्यं किलैतत्सा प्राह दैत्यानामसि गायनः॥ 1-72-42(3324)
एवं हि मे कथयति शर्मिष्ठा वार्षपर्वणी।
वचनं तीक्ष्णपरुषं क्रोधरक्तेक्षणा भृशम्॥ 1-72-43(3325)
स्तुवतो दुहिता नित्यं याचतः प्रतिगृह्णतः।
अहं तु स्तूयमानस्य ददतोऽप्रतिगृह्णतः॥ 1-72-44(3326)
इदं मामाह शर्मिष्ठा दुहिता वृषपर्वणः।
क्रोधसंरक्तनयना दर्पपूर्णा पुनः पुनः॥ 1-72-45(3327)
यद्यह स्तुवतस्तात दुहिता प्रतिगृह्णतः।
प्रसादयिष्ये शर्मिष्ठामित्युक्ता तु सखी मया॥ 1-72-46(3328)
`उक्ताप्येवं भृशं मां सा निगृह्य विजने वने।
कूपे प्रक्षेपयामास प्रक्षिप्य गृहमागमत्॥' 1-72-47(3329)
शुक्र उवाच। 1-72-48x(377)
स्तुवतो दुहिता न त्वं याचतः प्रतिगृह्णतः।
अस्तोतुः स्तूयमानस्य दुहिता देवयान्यसि॥ 1-72-48(3330)
वृषपर्वैव तद्वेद शक्रो राजा च नाहुषः।
अचिन्त्यं ब्रह्म निर्द्वन्द्वमैश्वरं हि बलं मम॥ 1-72-49(3331)
`जानामि जीविनीं विद्यां लोकेस्मिञ्शाश्वतीं ध्रुवम्।
मृतः संजीवते जन्तुर्यया कमललोचने॥ 1-72-50(3332)
कत्थनं स्वगुणानां च कृत्वा तप्यति सज्जनः।
ततो वक्तुमशक्तोऽस्मित्वं मे जानासि यद्बलम्॥ 1-72-51(3333)
तसमादुत्तिष्ठ गच्छामः स्वगृहं कुलनन्दिनि।
क्षमां कृत्वा विशालाक्षि क्षमासारा हि साधवः'॥ 1-72-52(3334)
यच्च किंचित्सर्वगतं भूमौ वा यदि वा दिवि।
तस्याहमीश्वरो नित्यं तुष्टेनोक्तः स्वयंभुवा॥ 1-72-53(3335)
अहं जलं विमुञ्चामि प्रजानां हितकाम्यया।
पुष्णाम्यौषधयः सर्वा इति सत्यं ब्रवीमि ते॥ 1-72-54(3336)
वैशम्पायन उवाच। 1-72-55x(378)
एवं विषादमापन्नां मन्युना संप्रपीडिताम्।
वचनैर्मधुरैः श्लक्ष्णैः सान्त्वयामास तां पिता॥ ॥ 1-72-55(3337)
इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि द्विसप्ततितमोऽध्यायः॥ 72 ॥
Mahabharata - Adi Parva - Chapter Footnotes
1-72-3 प्रचक्राम भूतलं प्रतीति शेषः॥ 1-72-8 समुदाचारः सदाचारः॥ 1-72-11 आदुन्वस्व आभिमुख्येन वक्षस्ताडनादिना संतापं प्राप्नुहि। विदुन्वस्व पांसुषु लुण्ठनादिना। द्रुह्य द्रोहं चिरकालिकं क्रोधं कुरु। कुप्यस्व सद्यः परानिष्टफलो यत्नः कोपस्तं कुरु। रिक्ता दरिद्रा॥ 1-72-12 प्रतियोद्धारं प्रहर्तारम्॥ 1-72-15 युग्या रथवाहकाः। हयाः केवलाश्वाः। उदकं पीयतेस्मादित्युदपानं कूपः॥ 1-72-23 अवटाद्गर्तात्॥ 1-72-34 घूर्णिकां दासीम्॥ 1-72-37 हतां ताडिताम्॥ 1-72-40 नियच्छन्ति प्रयच्छन्ति प्राप्नुवन्तीति भावः॥ 1-72-41 एतदेवाह मन्ये इति। निष्कृतिः फलभोगेन निरसनम्॥ 1-72-45 इदं पूर्वोक्तम्॥ 1-72-49 नाहुषो ययातिः। मम ऐश्वरं निर्द्वन्द्वमप्रतिपक्षं बलमस्ति॥ द्विसप्ततितमोऽध्यायः॥ 72 ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|